Srimad Valmiki Ramayanam

Balakanda Sarga 74

Parasurama !!

||om tat sat ||

बालकांड
चतुस्सप्ततितम स्सर्गः

अथ रात्र्यां व्यतीतायां विश्वामित्रो महामुनिः।
अपृष्ट्वा तौ राजानौ जगामोत्तर पर्वतम् ॥
आशीर्भिः पूरयित्वाच कुमारांश्च स राघवान् ॥

स॥ अथ रात्र्यां व्यतीतायां महामुनिः विश्वामित्रः कुमारांश्च स राघवान् आशीर्भिः पूरयित्वा च तौ राजानौ अपृष्ट्वाउत्तरपर्वतम् जगाम ॥

After the night has passed , the great ascetic Viswamitra blessed all the young ones along with Rama then took leave of the two kings and left for the mountains in the north.

विश्वामित्रे गते राजा वैदेहं मिथिलाधिपम् ।
अपृष्ट्वाsथ जगामाशु राजा दशरथः पुरीम् ॥
गच्छंतं तं तु राजानं अन्वगच्चन् नराधिपः ।
अथ राजा विदेहानां ददौ कन्याधनं बहुत् ॥
गवां शतसहस्राणि बहूनि मिथिलेश्वरः।
कंबळानां च मुख्यानां क्षौमकोट्यंबराणी च ॥

स॥ विश्वामित्रे गते अथ राजा दशरथः राजा वैदेहं मिथिलाधिपम् अपृष्ट्वा पुरीम् जगामाशु॥गच्छंतं राजानं नराधिपः अन्वगच्छन् । अथ विदेहानां राजा बहुत् कन्याधनं ददौ ॥ बहूनि शतसहस्राणि गवां कंबळानां क्षौमकोट्यंबराणि च मिथिलेश्वरः (ददौ)॥

After sage Viswamitra left , King Dasaratha took leave of Janaka the king of Mithila and proceeded to his city. The king Janaka followed the king who was leaving. The king of Videha gave lots of gifts. He gave hundreds and thousands of cows, blankets and silk garments.

हस्त्यश्वरथपादातां दिव्यरूपं स्वलंकृतम्।
ददौ कन्यासिता तासां दासीदासमनुत्तमम् ॥
हिरण्यस्य सुवर्णस्य मुक्तानां विद्रुमस्य च ।
ददौ परमसंहृष्टः कन्याधनमनुत्तमम् ॥
दत्वा बहुधनम् राजा समनु ज्ञाप्य पार्थिवम्।
प्रविवेश स्वनिलयं मिथिलां मिथिलेश्वरः ॥

स॥ दिव्यरूपं स्वलंकृतं हस्त्यश्वरथपादातां अनुत्तमम् दासीदासं तासां कन्यासिता ददौ ॥( स राजा) परमसंहृष्टः अनुत्तमम् हिरण्यस्य सुवर्णस्य विद्रुमस्य मुक्तानां कन्याधनं ददौ ॥बहुधनम् दत्वा राजा पार्थिवं समनुज्ञाप्य मिथ्लेश्वरः मिथिलां स्वनिलयं प्रविवेश ॥

He gave well decorated elephants horses chariots as well as foot soldiers and excellent male and female servants as gifts. Delighted he also gave silver gold silver pearls and corals as gifts. Having given very many gifts and having taken permission of the King( Dasaratha ) he entered his inner palaces.

राजा प्ययोध्याधिपतिः सपुत्त्रैर्महात्मभिः ।
ऋषीन् सर्वान् पुरस्कृत्य जगाम स बलानुगः ॥
गच्छंतं तं नरव्याघ्रं सर्षि संघं स राघवं ।
घोराः स्म पक्षिणो वाचो व्याहरंति ततस्ततः ॥
भौमाश्चैव मृगास्सर्वे गछ्चन्ति स्म प्रदक्षिणम्।
तान् दृष्ट्वा राज शार्दूलो वसिष्ठं पर्यपृच्चत ॥

स॥ अयोध्याधिपतिः सबलानुगः सपुत्त्रैः महात्मभिः सर्वान् ऋषीन् पुरस्कृत्य राजा जगाम॥स ऋषि संघं स राघवं गच्छंतं तं नरव्याघ्रं ततः ततः घोराः पक्षिणः वाचो व्याहरंति स्म।मृगास्सर्वे भौमाश्चैव प्रदक्षिणम् गच्छन्ति स्म। तान् दृष्ट्वा राज शार्दूलः वसिष्ठं पर्यपृछ्छत ॥

The ruler of Ayodhya left along with his forces , sons and the venerable sages. As he was going along with Raghava and the legions of Rishis the birds were making fearsome noises. The animals on the ground were moving about in a clockwise fashion. Seeing these the tiger among men asked the venerable sage Vasishta.

असौम्याः पक्षिणो घोराः मृगाश्चापि प्रदक्षिणाः ।
किमिदं हृदयोत्कंपि मनो मम विषीदति॥
राज्ञो दशरथस्यैतत् श्रुत्वा वाक्यं महान् ऋषिः ।
उवाच मथुरां वाणीं श्रूयताम् अस्य यत्फलम् ॥
उपस्थितं भयं घोरं दिव्यं पक्षि मुखाच्युतम् ।
मृगाः प्रशमयंत्येते संतापः त्यजतामयम् ॥

स॥ पक्षिणो घोराः असौम्याः मृगाश्चापि प्रदक्षिणाः । मम हृदयोत्कंपि मनः विषीदति किमिदं (इति)॥ राज्ञः दशरथस्य एतत् वाक्यं श्रुत्वा महान् ऋषिः मधुरां वाणीं उवाच । श्रूयतां अस्य यत् फलम् ॥ दिव्यं पक्षि मुखात् घोरं भयं उपस्थितं । एते मृगाः प्रशमयंति। अयम् संतापः त्यजतां॥

"The birds are making fearsome noises. The animals are moving about in clockwise fashion. So my heart is trembling. I am worried ". Hearing those words of the king , venerable sage Vasishta spoke to him with sweet words."Please listen to the meaning (of these signs). The fearsome noises of the birds signify the coming danger. The animals moving about in clockwise fashion signify the relief. Hence there is no need for concern."

तेषां संवदतां तत्र वायुः प्रादुर्बभूव ह ।
कंपयन् पृथिवीं सर्वां पातयंश्च द्रुमान् शुभान् ॥
तमसा संवृतस्सूर्यः सर्वा न प्रबभुर्दिशः ।
भस्मनाचावृतं सर्वं संमूढमिव तद्बलम्॥
वसिष्ठश्चर्षयश्चान्ये राजा च ससुतस्तदा ।
ससंज्ञा इव तत्रासन् सर्वमन्यत् विचेतनम्॥

स॥ तेषां संवदतां तत्र वायुः प्रादुर्बभूव ह । पृथिवीं कंपयन् सर्वान् द्रुमान् पातयंश्च॥सूर्यं तमसा संवृतः । सर्वा दिशः न प्रबभुः । सर्वं भस्मना आवृतं च तत् बलं संमूढमिव ॥वसिष्ठश्च अन्ये ऋषयश्च स सुत राजा च स संज्ञा इव तत्र आसन् । अन्यत् सर्वं विचेतनम्॥

Even as they were discussing thus there was fearsome wind which made the earth tremble. The trees were uprooted. Sun was covered by the darkness of dust. In all the directions light disappeared. The forces covered with dust were stunned. Sage Vasishta , other venerable sages , the king and the sons remained with full senses. All others were stunned.

तस्मिं स्तमसि घोरे तु भग्नच्छन्नेव सा चमूः ।
ददर्श भीम संकाशं जटामंडलधारिणम् ॥
भार्गवं जामदग्न्यं तं राजराजविमर्दिनम् ।
कैलासमिव दुर्दर्षं कालाग्नि मिव दुस्सहम्॥
ज्वलंतमिव तेजोभिः दुर्निरीक्षं पृथक्जनैः ।
स्कंधेचासज्य परशुं धनुर्विद्युद्गणोपमम्॥
प्रगृह्य शरमुख्यं च त्रिपुरघ्नं यथा शिवम्॥

स॥ सा चमूः तस्मिन् भग्नच्छन्नेव घोरे तमसि भीम संकासम् जटामंडलधारिणं ददर्श ॥ जामदग्न्यं भार्गवं राजराजविमर्दिनं कैलासमिव दुर्दर्षं कालाग्निमिव दुस्सहम् (ददर्श) ॥तेजोभिः ज्वलंत मिव पृथक्जनैः दुर्निरीक्षं परशुं स्कंधे चासज्य विद्युत्गणोपमम् धनुः शरमुख्यं च प्रगृह्य यथा शिवं त्रिपुरघ्नं ॥

In that darkness the army fully covered with dust saw the fearsome one, who was wearing matted locks. He is Parasurama , the son of Jamadagni, unconquerable like Kailasa, unbearable like the fearsome fire of time, blazing with blinding light and impossible for ordinary beings to see . Carrying an axe on his shoulder as well as a bow and arrows which shone with brilliance of lightning, he looked like Lord Siva the destroyer of Tripura.

तं दृष्ट्वा भीमसंकाशम् ज्वलंत मिव पावकम् ॥
वसिष्ठ प्रमुखा विप्रा जपहोम परायणाः ।
संगता मुनयस्सर्वे संजजल्पुरथो मिथः ॥

स॥ वसिष्ठ प्रमुखाः जपहोम परायणाः ज्वलंत मिव पावकं भीमसंकाशं तं दृष्ट्वामुनयः सर्वे संगता अथो मिथः संजजल्पुः ॥

Seeing the fearsome form shining with brilliance, the venerable sages including Vasishta who are always involved in Japa and Homa started talking among themselves.

कच्चित् पित्रुवधामर्षी क्षत्रं नोत्सादयिष्यति ।
पूर्वं क्षत्रवथं कृत्वा गतमन्युर्गतज्वरः ॥
क्षत्रस्योत्सादनं भूयो न खल्वस्य चिकीर्षितम् ॥
एवमुक्त्वा अर्घ्यमादाय भार्गवं भीमदर्शनम्।
ऋषयो रामरामेति वचो मथुरमब्रुवन् ॥

स॥ कच्चित् पित्रुवधामर्षी क्षत्रं न उत्सादयिष्यति । पूर्वं क्षत्र वथं कृत्वा गतज्वरः गतं अन्युः ॥भूयः क्षत्रस्य उत्सादनं अस्य चिकीर्षितं न खलु ॥एवं उक्त्वा भार्गवं भीमदर्शनं अर्घ्यं आदाय ऋषयः "राम राम्" इति मथुरं अब्रुवन् ॥

"With anger of his father being killed has he come to kill the Kshatriyas? Earlier after killing the Kshatriyas his anger subsided. Has he come again with intent to kill Kshatriyas"? Thinking along these lines the sages offered him due worship saying sweetly " Rama Rama".

प्रतिगृह्य तु तां पूजां ऋषिदत्तां प्रतापवान् ।
रामं दशरथिं रामो जामदग्न्यो अभ्यभाषत ॥

स॥ ऋषिदत्तां तां पूजां प्रतिगृह्य प्रतापवान् जामदग्न्यः रामो अभ्य भाषत ॥

Accepting the worship offered by the Rishis , that powerful son of Jamadagni spoke to Sri Rama as follows.

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालाकांडे चतुस्सप्तति तम स्सर्गः॥

Thus ends the seventyfourth Sarga of Balakanda in Valmiki Ramayana.
||ओम् तत् सत् ||

||om tat sat ||

 

 


||om tat sat ||